Loading...
アイコン

Madhvi Madhukar Live

チャンネル登録者数 6260人

863 回視聴 ・ 129いいね ・ 2024/09/07

परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम्।
गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ।।१।।

जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् ।
जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।२।।

महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।
सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।३।।

अनादिं गुणादिं सुरादिं शिवायाः महातोषदं सर्वदा सर्ववन्द्यम् ।
सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरेशवन्घं नताः स्मो नताः स्मः ।।४।।

परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।
असंख्यावतारं निजाज्ञाननाशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।५।।

अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।
क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।६।।

महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।
जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।७।।

महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् ।
मुदा कामरूपं कृपावारिधिं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।८।।

य इदं पठति स्तोत्रं स कामान् लभतेऽखिलान्
सर्वत्र जयमाप्नोति मानवायुः श्रियं पराम् ।
पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत्
सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ।।९।।

Song Credits

Song : Mayureshwar Stotram
Lyrics : Traditional- Ganesh Puran
Singer : Madhvi Madhukar Jha
Music label: SubhNir Productions
Music Director: Nikhil Bisht, Rajkumar
Keyboard : Pawan Kumar
Flute : Kiran Kumar

For videos of live programs please visit my another channel ​​⁠​⁠​⁠‪@MadhviMadhukarLive‬
For more Stotrams and Stutis please follow ‪@MadhviMadhukar‬

コメント

コメントを取得中...

コントロール
設定

使用したサーバー: watawata8